(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
7.12. अध्यायः 012
Mahabharata - Drona Parva - Chapter Topics
द्रोणचोदितेन दुर्योधनेन युधिष्ठिरस्य जीवग्राहं ग्रहणवरणम्॥ 1 ॥ द्रोणेन अर्जुनासन्निधाने तद्व्रहणे प्रतिज्ञाते दुर्यो धनेन तदुद्धोषणम्॥ 2 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-12-0x(4285)(45101)
`शुश्रूषस्व स्थिरो भूत्वां शंसतो मम भारत'।
हन्त ते कथयिष्यामि सर्वं प्रत्यक्षदर्शिवान्।
यथा सत्यपरो द्रोणः सादिताः पाण्डुसृञ्जयैः॥ 7-12-1(45102)
सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः।
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत्॥ 7-12-2(45103)
यत्कौरवाणामृषभादापगेयादनन्तरम्।
सैनापत्ये त्वया राजन्नद्य सत्कृतवानहम्॥ 7-12-3(45104)
सदृशं कर्मणस्तस्य फलं प्राप्नुहि भारत।
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि॥ 7-12-4(45105)
सञ्जय उवाच। 7-12-5x(4286)
ततो दुर्योधनो राजा कर्णदुःशासनादिभिः।
सम्मन्त्र्योवाच दुर्धर्षमाचार्यं जयतां वरम्॥ 7-12-5(45106)
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम्।
गृहीत्वा रयिनां श्रेष्ठं मत्समीपमिहानय॥ 7-12-6(45107)
`इच्छेयं वै महात्मानं धर्मात्मानं युधिष्ठिरम्।
भ्रातृणां पश्यतामेव जीवग्राहेण मे द्विज॥ 7-12-7(45108)
गृहीत्वा रथिनां श्रेष्ठं मत्सकाशमिहानय।
प्रीणाम्यनेन कार्येण ससुहृज्जनबान्धवः॥ 7-12-8(45109)
सञ्जय उवाच। 7-12-9x(4287)
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः।
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत्॥ 7-12-9(45110)
धन्यः कुन्तीसुतो राजन्यस्य ग्रहणमिच्छसि।
न वधं तस्य दुर्धर्ष वरमद्य प्रयाचसे॥ 7-12-10(45111)
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसे।
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम्॥ 7-12-11(45112)
आहोस्विद्धर्मराजस्य द्वेष्टा कश्चिन्न विद्यते।
यदीच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः॥ 7-12-12(45113)
अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान्।
राज्यांशं प्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि॥ 7-12-13(45114)
धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः।
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान्॥ 7-12-14(45115)
सञ्जय उवाच। 7-12-15x(4288)
द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत।
सहसा निःसृतो भावो योस्य नित्यं हृदि स्थितः॥ 7-12-15(45116)
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि।
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत्॥ 7-12-16(45117)
वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम।
हते युधिष्ठिरे पार्था हन्युःसर्वान्हि नो ध्रुवम्॥ 7-12-17(45118)
नैव शक्या रणे सर्वे निहन्तुममरैरपि।
`यदि सर्वे हनिष्यन्ते पाण्डवाः ससुता मृधे॥ 7-12-18(45119)
ततः कृत्स्नं वशे कृत्वा निःशेषं नृपमण्डलम्।
ससागरवनां स्फीतां विजित्य वसुधामिमाम्॥ 7-12-19(45120)
विष्णुर्दास्यति कृष्णायै कुन्त्यै वा पुरुषोत्तमः'।
यद्येष चैषां शेषःस्यात्स एवास्मान्न शेषयेत्॥ 7-12-20(45121)
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते।
`तस्मिञ्जीवति चायाते ह्युपायैर्बहुभिः कृतैः'।
पुनर्यास्यन्त्यरण्याय पाण्डवास्तमनुव्रताः॥ 7-12-21(45122)
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति।
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित्॥ 7-12-22(45123)
सञ्जय उवाच। 7-12-23x(4289)
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित्।
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान्॥ 7-12-23(45124)
द्रोण उवाच। 7-12-24x(4290)
न चेद्युधिष्ठिरं वीरः पालयेदर्जुनो युधि।
मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः॥ 7-12-24(45125)
न हि शक्यो रणे पार्थः सेन्द्रैर्देवासुरैरपि।
प्रत्युद्यातुमतस्तात न तस्माद्धर्षयाम्यहम्॥ 7-12-25(45126)
असंशयं स मे शिष्यो मत्पूर्वश्चास्त्रकर्मणि।
तरुणः सुकृती युक्त एकायनगतश्च सः॥ 7-12-26(45127)
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान्।
अमर्षितश्च ते राजंस्ततो नामर्षयाम्यहम्॥ 7-12-27(45128)
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते।
अपनीते ततः पार्थे धर्मराजो जितस्त्वया॥ 7-12-28(45129)
ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ।
`ग्रहणं हि वधात्तस्य धर्मराजस्य मन्यसे'।
अनेनैवाभ्युपायेन ग्रहणं समुपैष्यसि॥ 7-12-29(45130)
अहं गृहीत्वा राजानं सत्यधर्मपरायणम्।
आनयिष्यामि ते राजन्वशमद्य न संशयः॥ 7-12-30(45131)
यदि स्यास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः।
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये॥ 7-12-31(45132)
फल्गुनस्य समीपे तु न हि शक्यो युधिष्ठिरः।
ग्रहीतुं समरे राजन्सेन्द्रैरपि सुरासुरैः॥ 7-12-32(45133)
सञ्जय उवाच। 7-12-33x(4291)
`एवमुक्ते तदा तस्मिन्युद्धे देवासुरोपमे'।
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः॥ 7-12-33(45134)
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत्।
`स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष'।
सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम॥ 7-12-34(45135)
पाण्डवेयेषु सापेक्षं द्रोणं जानाति ते सुतः।
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः॥ ॥ 7-12-35(45136)

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्वादशोऽध्यायः॥ 12 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-12-11 एतां वधरूपां क्रियां मत्तो नाशंससि न सम्भावयसि॥ 5-12-12 तदिच्छसि त्वं इति क.ख.पाठः॥ 5-12-14 सुजातं शोभनं जन्म 5-12-22 व्यक्तं नियतम्॥ 5-12-26 मत्पूर्वः अहं पूर्वो गुरुर्यस्य एकायनगतः जयमरणान्यतरनिश्चयवान्॥ 5-12-35 बहुलीकृतः प्रतिज्ञां न त्यजेदिति बहुषु प्रकाशितः॥ 5-12-12 द्वादशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.